Central Sanskrit University Website    Screen Reader Access  |  Skip to Main Content  |   |   |  English Version  |  संस्कृतसंस्करणम्  |  हिन्दी संस्करण
NAVYA NYAYA
भारतसर्वकारस्य मानवसंसाधनविकासकार्यालयाधीनं सप्तत्यधिकैकोनविंशतिशततमे ख्रीस्ताब्दे (१९७०) व्यवस्थापितं राष्ट्रियसंस्कृतसंस्थानम् । इदं च संस्थानं मानितविश्वविद्यालयत्वेन २००२ तमे ख्रिस्ताब्दे भारतसर्वकारेण स्वीकृतम् । संप्रति २०२० ख्रीष्टाब्दस्य अप्रेलमासस्य त्रिंशद्दिनाङ्कतः राष्ट्रियसंस्कृतसंस्थानं संसदः २०२० तमाधिनियमेन केन्द्रियसंस्कृतविश्वविद्यालयत्वेन सुप्रसिद्धम् । अस्य हि विश्वविद्यालयस्य भारतराष्ट्रेषु विभिन्नक्षेत्रेषु त्रयोदश परिसराः सन्ति । तेष्वन्यतमोऽयं परिसरः विभिन्नान् विभागान् क्रोडीकृत्य सुशोभते । न केवलं लोकव्यवहारे शास्रे च विषयस्य तात्विकं तथ्यं निर्धारयितुमपितु वादक्रियायां विजयप्राप्त्यर्थं समस्तशास्त्रेषु निर्द्वन्द्वत्तया प्रवेशार्थं च महदुपकारकं वादविषयेषु इदं शास्त्रमिति मनसि निधाय अस्य शास्त्रस्यावश्यकता पूर्वाचार्यैः कथिता । एकसप्तत्युत्तरैकोनविंशतिशततमे ख्रिस्ताब्दे (१९७१ ई. ) अयं विभागः अत्रास्तित्वं प्राप्तः । ततः प्रभृति अनेके विद्वन्मणय आचार्या इमं विभागमलङ्कृतवन्तः तेषु पं. राधारमणदासः(१९७१ई.), पं. नरसिंह बापुजी डेवले(१९८० ई.) ,डाँ.एन्.आर्. कण्णन् (१९८७ ई) पं. नरोत्तम सेनापतिः (१९८७ ई. ) प्रो. रामपूजन् पाण्डेयः (१९८७ ई. ) प्रो. सत्यम् कुमारी (१९९७-२०११ ई. ) , प्रो. के.इ. मधुसूदन् , सन् (२००२-२००८ ई.) , प्रो. सच्चिदानन्दमिश्रः (२००२-२००४ ई.) । एषु कण्णन् महोदयाः गुरुवायूर,लखनऊ शृङ्गेरीपरिसरे प्राचार्यपदं राष्ट्रियसंस्कृतसंस्थानस्य कुलपतिपदं च विभूषितवन्तः । इदानीमत्र परिसरे चत्वारः अध्यापकाः सन्ति । डाँ. आर्.बालमुरुगन् (सहाचार्यः) , डाँ. महेश झा (सहाचार्यः) , डाँ. गणपतिशुक्लः (वरिष्ठ-सहायकाचार्यः) डाँ पीताम्बरमिश्रः , सहायकाचार्यः सं. । एते अध्यापकाः वादकुशलाः छात्राणां भविष्यनिर्माणोत्सुकाः विराजन्ते । इमे विचक्षणाः अस्य विभागस्य गौरवं वर्द्धितवन्तः वर्द्धयन्तश्च सन्ति। छात्राः अस्य गरिमाणं श्रुत्वा विभिन्नेषु प्रदेशेषु स्थलेषु च स्वज्ञानवर्द्धनार्थं प्रवेष्टुकामाः वर्तन्ते । नैरन्तर्येण विकासोन्मुखं समयमवलोक्य अत्र निर्धारितपाठ्यक्रमेषु समयानुकूलं व्यवस्थितं पाठ्यक्रमपरिवर्त्तनं भवति । यथा २००९ ई. ख्रिस्ताब्दे २०१२ ई. ख्रिस्ताब्दे च यथाकक्षमपेक्षितं परिवर्त्तनं जातम् । किञ्च सम्प्रति राष्ट्रियशिक्षानीत्याधारितं नूतनपाठ्यक्रमनिर्माणकार्यक्रमः प्रप्राथम्तेन प्रचलति , तदनुसारि एव अग्रिमसत्रतः (२०२२-२३ तः) विश्वविद्यालयेऽस्मिन् पठनपाठनं भविता । अत्रत्याः छात्राः अस्य विभागस्य वैशिष्ट्यं ख्यापयितुं स्वप्रतिभाकौशलं प्रदर्शयितुं च विभिन्नासु सङ्गोष्ठिषु , प्रोजेक्टकार्ये शास्त्रार्थसभायां नैकासु प्रतियोगितासु च भागं गृह्णन्ति सफलताशिखरं च चुम्बन्ति।
प्रतिवर्षं विभागीयछात्राणां कृते परियोजनाकार्यं साप्ताहिकीसंगोष्ठी परिसरीयसंगोष्ठी-संस्कृतसम्भाषणं, शास्त्रार्थपद्धतिशिक्षणं, विविधप्रतियोगितासु भागग्रहणं , पुस्तकालयीयकार्यं, कक्षापरीक्षा च विभागीयाचार्याणां निदर्शने आयोज्यन्ते ।
विभागपक्षतः आयोजितायां राष्ट्रियशोधसंगोष्ठ्यां विशिष्टव्याख्यानमालायां च ख्यातिलब्धाः विपश्चितः अतिथिरूपेण आहूयन्ते । तेषु प्रो.वशिष्टत्रिपाठिनः, प्रो.नीलकण्ठपतयः, प्रो.गङ्गाधरपण्डा, प्रो.राजारामशुक्ला, प्रो.उमारमणझा, प्रो.कमलेशमिश्राः,प्रो. कमलेशझा, प्रो. किशोरनाथझा , प्रो. वौआनन्दझा प्रो.रामकिशोरत्रिपाठिनः, प्रो.कृष्णकान्तशर्मणः, प्रो.अश्विनीकुमारदासाः, प्रो. एन्. आर्.शठकोपताताचार्याः, प्रो.भगवतशरणशुक्लाप्रभृतयःआचार्याः मुख्याः ।
श्रीसदाशिवपरिसरीयन्यायविभागे २०१२ तः २०२१ पर्यन्तं त्रयोदशशोधछात्रच्छात्राः विद्यावारिधिं प्राप्तुवन् । अत्राधीताः छात्राः भारतसर्वकारस्य स्थापितेषु विभिन्नेषु पदेषु वृत्तिं लब्धवन्तः । २०१३-१४ तः प्रतिवर्षं विभागपक्षतः “तर्कतरङ्गिणी”त्याख्या शोधपत्रिका प्रकाश्यते । अस्य विभागस्य प्राध्यापकानामनेके ग्रन्थाः प्रकाशिताः अनेके च प्रकाश्यमानाः सन्ति ।

INTRODUCTION – The Department of Navya Nyaya was established in the year 1971 in the Shri Sada Shiva campus , puri , central Sanskrit university. Many excellent scholars have served in this department as professors and Associate Professors and flourished this Navya Nyaya department to become one of the best department in the puri campus. Pandit.Radha Raman Das [ 1971], Pandit. Narasimha Bapuji Devale [1980], prof. K.E. Govindan [1983], Prof. N.R. Kanan [1987], prof. Narottam Senapthi [1987], prof. Sachidananda Mishra [ 2002] are notable persons among the previous scholars. Later Prof. N.R. Kanan has become principal of Guruvayoor Campus,Kerala and then served as principal in many campuses like Lucknow, Sringeri and Allahabad .He has adorned the Vice Chancellor chair for 6 months as Vice Chancellor in charge in the year 2015. At present there are four teachers are actively engaging this department. They are Dr. R. Balamurugan, [ Associate Professor], Dr. Mahesh Jha [ Associate Professor], Dr. Ganapthi Shukla [ Senior Assistant Professor], Dr. Pitambara Mishra [ Assistant Professor, contract.],

  • First of all The Navya Nyaya department fulfils the motto of Central Sanskrit University that is protect and propagate samskrita shastras. The Ministry of M.H.R.D now Ministry of Education has founded Central Sanskrit university[ formerly know as Rashtriya Sanskrit sansthan] to protect and teach sasnkrit literature all over india.
  • This department is sincerely teaching old and modern system of Indian logic [ pracheen & navya nyaya] in a very lucid manner to bring these systems in practice of our daily life.
  • Develop the reasoning skill among the students to understand other sastra and get success in competitive examinations.

Dr. Mahesh Jha
Professor
Sl.No. Name Designation Profile Details
1
Dr. Mahesh Jha
Professor
2
Dr. Ganapati Shukla
ASSOCIATE PROFESSOR
3
Dr. Pitamber Mishra
Assistant Professor (Contract)
4
Dr. KISHOR KUMAR
Guest Faculty Assistant Professor Grade